________________
सर्वज्ञस्तोत्रम् । ५७ यन्तीति सदानाः । अनः श्वसक् प्राणने, “कर्मणो ऽण् ॥५॥१॥७२॥इति वचनात् । सदानाश्च ता वसुराजयो वपुषः किरणश्रेणयस्ताः तनोषि विस्तारयसि ॥ ५ ॥ अद्य देव जगज्जेत्रं भाववैरिबलं मया। भवत्यालोकिते श्रेयोऽसदानवसुरा जितम६॥
दानी खण्डने इति धातुना सह दानेन सदाना न सदाना असदाना अखण्डा श्रेयांस्येव असदानाश्च ते वसवो वृक्षाश्च तत्पल्लवनाय रा मेघाः । राः स्वर्णे जलदे धनदे इति प्रामाण्यात् । जितमिति क्रिया। यहाववैरिबलं मया जितम् ॥ ६ ॥
न के जिन निगृह्णन्ति कामाख्यं विश्वमोहिनम्। त्वय्याश्रिते शुभोदकं सदाऽनवसुराजितम् ॥७॥
शुभोदर्क शुभफलप्रधान आ सामस्त्येन नवस्तवो यस्य त्वयि सुराजि सुस्वामिनि आश्रिते सति कामना..