________________
५८
श्रीसोमतिलकसूरिविरचितं
मकं चौरं तम् । जाने तस्करकोडपुच्छपोऽतस्ता पुनः
श्रियामिति वचनात् ॥ ७ ॥
मदं वर्द्धयते तत्त्वमूढताऽऽशु तथाऽङ्गिनाम् । यथा पीतेश चैतन्यासदा नवसुराजितम् ॥८॥
अदाना सती चैतन्यनिरासादायिनी मदिराऽऽ जिः कलहं ततो तुस हस हस शब्दे इति धातुना आजिं कलहं तोसतीति शब्दयतीति आजितम् ॥ : ॥ कचटतपनतेजः पञ्चमुष्टयुद्धृतोद्यत् कच टतपसमानः प्रौढपापौघपङ्के । कचटतपकरस्त्वं देव रागादिदस्यून् कचटतपसुरेन्द्रैर्वन्द्यपादारविन्दः ॥ ६ ॥
कच बधान द्वितीयपदादौ क्रियेयम् । ललाटंतप सूर्य प्रताप । कचट केशकलाप । ट उपलेपकलापसीमासु इति वचनात् । तपसमः ग्रीष्मतुल्यः । कः सूर्यश्वश्चन्द्रः टतपाः राजानः, तपि ऐश्वर्य्ये, टि पृथिव्यां तपतीति एभिः सुरेन्द्रैश्च ॥ ९ ॥