________________
श्रीसोमतिलकसूरिविरचितं पादन्यासेन नवसु सौवर्णकमलेषु शोभितम् ॥२॥
भवन्तं नौति यो मूरि भक्त्या तं नौति नित्यशः। विश्वमर्थितया नाथ सदानवसुराजितम् ॥ ३॥ दानसहितं वसु धनं तद्रूपा राजिता लक्ष्मीर्यस्य ॥३॥
नाथ जन्ममहे विश्वसुखे त्वां वीक्ष्य मन्दरे। केनाऽऽमोदि खगेन घुसदा न वसुराजि तम्॥४॥ _ विद्याधरेण देवेन च न आमोदि न हर्षितं अपि तु हर्षितमेव । किं विशिष्टे मेरौ स्वर्णरत्नशोभिनि तं त्वां वक्ष्यमाणम् ॥ ४ ॥
मया कल्मषमक्षालि पुण्यं चागण्यमर्जितम् । त्वां प्रतीक्षनिरीक्षाद्य सदाऽऽनवसुराजितम्॥५॥ सतः शिष्टान् आनयन्ति आश्वासयन्ति आह्वाद