________________
श्रीपार्श्वनाथस्तवनम् । लक्ष्म्याकर्षणशृङ्खला शिवपदप्रासादनिःश्रेणिका
श्रेयःसन्ततिहेतुरर्तिदलनाऽदोषोदयाद्युतिः। आपत्तापभरे समीरलहरी श्रीपार्श्व विश्वेश ते
संसारार्णवलङ्घने घनतरी भक्तिः स्थिरा मे हृदि ॥२०॥ मिथ्यात्वद्विषताकदर्थितमिमं दुष्कर्मभिर्दुःखितं
ग्रस्तं रागमहोरगेण विषयस्तेनोत्कटैटुंण्टितम् । अज्ञानेन वृतं तमःकवचितं भावारिभिर्भापितं
हीनं दीनमुपागतं स्वशरणं मां रक्ष २ प्रभो ॥२१॥ द्रष्टव्यस्त्वमसि प्रभो त्रिभुवने वन्द्योऽभिवन्धस्तुतः
सेव्यः स्तुत्यगुणः शरण्यचरणोध्ययो निधेयो हृदि । श्रेयःस्थेयमतिः प्रशस्यमहिमानेयो न नेयोऽर्थिना
मभ्यर्थ्यः प्रभुरभुतोदयपदं श्रीदेव नन्द्याश्विरम्॥२२॥ इत्यानन्दवशंवदात्मनसा प्रज्ञां विनाऽपि स्तुतः
श्रीपार्श्व श्रितभव्यवत्सलमतिः सद्यःप्रभो.'' भक्तिं निर्मलसोमसुन्दरगुणश्रेणीसखीशालिनी स्वां भृत्यस्य भवे भवेऽभ्युदयिनी देवेच्छतो यच्छ मे॥२३॥ इति श्रीजिनमुन्दरसूरिकृतं श्रीपार्श्वनाथस्तवनम् ।