________________
॥ अहम् ॥ श्रीजिनसुन्दरसूरिकृतः श्रीऋषभस्तवः।
श्रेयोलतापल्लवनैकनीरदं
त्वां देहिनां देव भवाब्धितीरदम् । आदिप्रभो भक्तिभरेण भूरिणा
स्तवीमि सेव्यं पुरहूतसूरिणा ॥ १ ॥ मूर्तिस्तवेनेन्दुकलाविलासिनी
विलासिनी मुक्तकुमुन्महोदयम् । महोदयं वादिशते वितन्वती
वितन्वती वा शुभमत्र पावनी ॥ २ ॥ त्रपावनीमापितवान् हिमालयं
हिमालयं शुभ्रयशोवितानतः। वितानतः स्वर्गिगणिः कलाधरः
कलाधरस्तारय मां भवापदः ॥३॥