________________
श्रीजिनमुन्दरमरिकतं . मोहं द्रोहपरं निवारयतमा मारिं महारिं हर
क्रोधं रोधपरं न योधय विभो क्षोभं च लोभं नय । दम्भं देव निशुम्भ लम्भय भयं ध्वंसं शुचं संहर
स्तम्भं स्तम्भय मे मथान कुनयं मिथ्यात्वदोषद्विषम् १६ पूर्वोपात्तमघं विघट्टय विभो भ्रान्तिं प्रभो भ्रंशय विश्वव्यंसकतामकान्तविपदं मादं प्रमादं क्षिप । अज्ञानं विनिवर्तयेरविरतं त्वं त्याजयासंमतं प्रत्यादेशय पेशलेतरपथप्रस्थानमन्तद्धय ॥ १७ ॥ खामुज्जम्भय भूरिभक्तिमनिभा बोधि विशोधिं नय
खान्ते सीमशमं निवेशय विभो पुण्यां निजाज्ञां च मे। दैन्यं मईय संविदं विशदयानन्दं प्रयच्छोन्मदं सम्यग्दर्शनदर्पणं विदलितार्कद्योतमुद्योतय ॥१८॥ धर्म निश्चलतामवापय भवच्छेदं दिश च्छेकता
मर्थित्वं सुकृतेषु मेऽतनु सृज श्रेयस्ततिं विस्तृताम् । संवेगे दृढरङ्गमङ्गय मनो नीरागतासङ्गतिं । तन्या नाथ तथा रतिं जिनमते कुर्याः सुमार्गे धृतिम् १९