________________
श्रीपार्थनाथस्तवनम् । नाथ त्वत्पदपद्मयोर्नतिमतां बाधाविधानाय नो
भूतप्रेतपिशाचकिन्नरगणा रक्षो न यक्षोरगाः । व्याला हालहलानला न मरको वेतालमालाः खला
भव्यानां प्रभवन्ति कार्मणमुखक्षुद्रामयोपद्रवाः॥१२॥ ध्यायन्तस्तव नाममन्त्रमनघं क्षेमादविना जना
लब्धार्था विषमे जलस्थलपथे गेहे समाज कच्छति। नासत्यं शपथं प्रतापचकिताः कुर्वन्ति दिव्यं नरा
दुष्टा धृष्टहृदोऽपि चौरचरटा भञ्जन्ति नाज्ञां तव ॥१३॥ विघ्नध्वंसकृतैः खलास्त्वपि पलायन्ते प्रतापानल
ज्वालाभिर्खलिता दिशोदिशमिलापालाः शृगाला इव । दुष्टा धृष्टहृदो हठादपि लुठन्त्यही तथा स्वाञ्जसा वादे वैरिगणे महारणभरे नेतर्लभन्ते जयम् ॥ १४ ॥ प्राकाम्यं महिमाऽणिमा च लघिमा कामावसायित्वयुक्
प्राप्तीशत्ववशत्वमेवमतुला अष्टौ महासिद्धयः। त्वत्पादाब्जजुषां भवन्ति भविनां किंवा न सम्पद्यते प्राप्ते कल्पतरौ जिनेप्सितततिप्रत्यर्पणप्रत्यले ॥१५॥