________________
४४ श्रीजिनमुन्दरसूरिकृत कासश्वासशिरोतिकुष्ठपिटकश्लेष्मोरुकण्डूज्वरो
दावर्तक्षयशोफमण्डलमुखैरोगैरलं पीडिताः । देव बच्चरणाम्बुजन्मशरणं प्राप्ताः प्रतिज्ञान्विता
ध्वस्ताशेषरुजावजा हि मनुजाः सज्जा भवन्त्यञ्जसा॥८॥ निःसत्वव्यसनौघविघ्नविषमव्याधिव्यथाविह्वला
विश्वाधीश तव प्रसादवशतो निमन्तवो जन्तवः । वेगादेव गताखिलानभिमता वीतापदः सम्पदः
सद्यः स्युः प्रतिपद्य हृद्यमुदयं चानन्दमेदखिनः ॥९॥ लक्ष्मीराज्यभिलाषिणोऽधिकरमा भोगान् सुभोगार्थिनः पुत्रान् पुत्रकृतस्पृहा बहुगजं राज्यं च राज्यच्युताः । नेतश्चक्षुरचक्षुषो निरुपमं रूपं कुरूपा नरास्त्वत्तःस्तुत्यकलाः कलापविकला दिव्यं बलं दुर्बलाः।१०। नव्यां काव्यकलां सदाऽप्यकवयोऽजल्पाश्च जल्पाकतां
प्रागल्भ्यं भृशमप्रगल्भमनसो विद्यामविद्यान्विताः। तत्त्वज्ञानमतात्त्विका यदखिलाभीष्टं लभन्ते ततो.. देवः कामिततीर्थमित्थमखिले ख्यातं गतो भूतले॥११॥