________________
श्रीपार्श्वनाथस्तवनम् । ४३ ध्वस्तोपाधिविशुद्धसंयमतपःकारुण्यसाम्यश्रियः
सद्यः सात्म्यमुपागतास्तव तथा खामिन् खभावादपि । एतासामनुभावतो बत यथा जाता जगद्व्यापिनी
चेतः कस्य चमत्करोति विभुतास्फूर्तिमहिम्नश्च न॥४॥ कल्पक्षोणिरहो न यत्र मणयो नो कामकुम्भाः फलं
यच्छन्ति प्रहतानुभावनिवहा देवा न सेवाकृताम् । देवाभङ्गुरजागरूकमहिमाकाले कराले कलौ
जीरापल्लिजिनेश तत्र नमतां दत्से मनोवाञ्छितम् ॥५॥ नध्यातैर्जिनमन्त्रतन्त्रनिकरैनों देवताराधन
नों विद्याभिरुपासिताभिरनिशं नो विक्रमोपक्रमैः । तीबेनापि तपोभिरीश यदनुष्ठानैर्न चावाप्यते
सन्तस्तत्तव नाममात्रजपतोऽभीष्टं लभन्ते फलम् ॥६॥ देव लत्पदवन्दनैकमनसामेकाकिनामङ्गिनां मार्गे संसरतां हरन्ति विषमे क्रूरा न चौरा धनम् । दुष्टाकूतभृतोऽप्यटन्ति निकटे व्याघ्रान शीघ्रागमा यत्तत्पार्थ तव प्रतापमहिमा प्रोज्जागरो जृम्भते ॥ ७ ॥