________________
॥ अहम् ॥ श्रीजिनसुन्दरसूरिकृतं
श्रीपार्श्वनाथस्तवनम्। विश्वव्यापियशःप्रभावविभवं सद्भूतभक्त्याऽऽनत
वातानल्पविकल्पजल्पकमलासङ्कल्पकल्पद्रुमम् । स्फूर्जत्कज्जलमञ्जुलच्छवितनं श्रीपार्श्वदेवं स्तुवे
जीरापल्लिपयोधिनेमिमहिलाभालस्थलालङ्कृतिम् ॥१॥ पद्मोल्लासकरस्तमोभरहरः प्रध्वस्तपङ्कोत्करः
स्फूर्जदाःप्रसरः पदार्थविसरप्रोगासने तत्परः । नित्यं क्लुप्तसुवासरः क्षितदरः प्रौढप्रभावाकरः
पुण्यैर्विश्वपते स्फुरदिनकरः प्राप्तोऽसि दृग्गोचरः ॥२॥ दारियं गतमद्य देव दुरितं दूर व्युदस्तं दितं
दैन्यं घोरविपढटा विघटिता विनवजा जिग्निरे । भाग्यैर्जागरितं शुभैविकसितं श्रोयोभिरुज्जृम्भितं पादाम्भोजनिभालनं तव विभो जज्ञेऽधुना येन मे ॥३॥