________________
श्रीसीमन्धरस्वामिस्तवनम् । राज्यैराज्यैरिव विषयुतैर्नार्थना विश्वनेत
भॊगैरोगैरिव मम सृतं सर्वदोषापनेतः । दिष्ट्या दृष्ट्या तव परपदाम्भोजयुग्मं कृतार्थः
प्रेक्ष्य प्रेक्ष्य क्षपितदुरितः स्यां नु लब्धार्थसार्थः॥२४॥ एवं निर्भरभक्तिसंभृतहदा नोऽतिक्रियाकर्मतां
नीतः स्फीततमप्रभावभवनं त्वं नाथ सीमन्धर । तद्वत्तन्मयदेव सुन्दरतरं कुर्याः प्रसादं यथा
भूयासं भवदुक्तशासनवराऽऽसेवाविधौ सोद्यमः ॥२५॥ इति श्रीसीमन्धरस्वामिस्तवनं श्रीजिनमुन्दरसूरिकृतम् ॥१॥