________________
श्रीजिनमुन्दरसूरिकृतं
तांशुजालैर्जटिलं तवासनं
सिंहाञ्चितं भाति तमोनिरासनम् । भामण्डलं भासितभूमिमण्डलं
बभास्ति पृष्ठे जितभानुमण्डलम् ॥ ४ ॥ सदुन्दुभिस्ते दिविविस्मयप्रदो
नदन्न केषां ददते च संमदम् । छत्रत्रयं कुन्दवरेन्दुसुन्दरं
विश्वाधिपत्यं तव सूचयत्यरम् ॥ ५ ॥ स्फुरज्ज्ञानसन्तानलक्ष्मीनिधानं
भजन्तेऽत्र ये ते पदाब्जं प्रधानम् । अरं तेष्वमेया रमन्ते विरामं - सहर्ष विशेषा रमाया निकामम् ॥६॥ अवाप्य प्रजा भूरिभाग्यैकलभ्यं
भजन्ते भवन्तं विभो शर्मलभ्यम् । किमु स्थूललक्षं लसत्कल्पवृक्षं
लभन्ते न लब्ध्वा नरा मक्षु सौख्यम् ॥ ७॥