________________
॥ अर्हम् ॥
श्रीजिनसुन्दसूरिकृतम् । श्रीसीमन्धरस्वामिस्तवनम् ।
श्रीमन्तमर्हन्तमनन्तचिन्मयं
त्वां भक्तितो नाथ यथार्थवाङ्मयम् ।
सीमन्धरश्रीजिनमस्तदूषणं
स्तवीम्यहं पूर्वविदेहभूषणम् ॥ १ ॥
रक्तो गुणैः किं नतनाकिराज ते
सेवां श्रितोऽशोकतरुः सुराजते ।
आजानुनानाविधवर्णबन्धुरः पुष्पव्रजोऽप्यद्भुतसौरभोद्धुरः ॥ २ ॥ सर्वाङ्गभाजां प्रतिबोधकारक
स्तव ध्वनिः शान्तरसावतारकः ।
चञ्चञ्चलञ्चामरराजिरुज्वला
पार्श्वेषु ते चन्द्रमरीचिमञ्जुला ॥ ३ ॥