________________
श्रीजिनस्तुतयः।
॥ अहम् ॥ नमेन्द्रमौलिप्रपतत्परागयुज___ स्फुरत्कर्बुरितक्रमाजम् । वीरं भजे निर्जितमोहवीरं
संसारदावानलदाहनीरम् ॥ १॥ पुष्पौघपद्मदलसौरभगुण्डितानि
स्वर्णाम्बुजैः सुरकृतैः परिमण्डितानि । वन्देऽर्हतां वरपदानि नतान्यजेन
भावावनामसुरदानवमानवेन ॥ २ ॥ नाना रत्नैः सुभगमतुलप्रौढसादृश्यपाठै
विज्ञज्ञातैर्बहुनयभरैः सत्तरङ्गैरुपेतम् । युक्त्या जैन समयमुदधि कीर्तयाम्यस्मि कामं
बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥ ३ ॥ श्रीमद्दीरक्रमाम्भोरुहरसिकमना राजहंसीव रम्या सिद्धा सिद्धाविरुद्धा विशदगुणलसद्धक्तहृत्पद्मरुद्धा। या धत्ते स्वीयकण्ठे घनसुरभिरसां पुष्पमालां विशालामामूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम्॥४॥
इतिश्रीजिनस्तुतयः ।