________________
श्रीसीमन्धरस्वामिस्तवनम् । ३७ लसत्केवलज्ञाननव्यांशुमाली
मरालावलीमञ्जुलश्लोकशाली। धराधीश सीमन्धर वं लुनीषे
जनैनांसि यस्मान्न के कं पुनीषे ॥ ८ ॥ प्रभो प्रातरुत्थाय यो नंनमीति
भवन्तं न सोऽङ्गी भवे बंभ्रमीति । त्वदुक्तेषु येषां मनो रमीति
भयेनैव तेभ्यो भयं दन्द्रमीति ॥ ९॥ अविश्रामहपेयलावण्यगेहं
भवन्तं निभाल्य प्रभो हेमदेहम् । कृतार्थानि कुर्वन्ति ये नित्यमेव
स्वनेत्राणि धन्यास्त एवेह देव ॥ १० ॥ महाश्चर्यमैश्वर्यमांश त्वदीयं
प्रमोमुचते ऽवेक्ष्य चेतो यदीयम् । न केषां भवेयुस्तमा माननीया
घनश्लोकभाजश्च ते श्लाघनीयाः ॥११॥