SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ - खोपन-टीकासहिता। विराजनशीलं मध्यं यस्याः सा तथा । पुनः कथं भूता। परार्थघटनापटुः परे प्रतीयमानेभ्योऽन्ये येऽर्थास्तेषां या घटना योजना तत्र पटुश्चतुरा। अथवा पराः प्रकृष्टा भगवत्स्तुतियांग्या येऽर्थास्तेषां घटना । अथवा परः प्रकृष्टो योऽर्थः सिद्धिलक्षणस्तस्य घटना मेलनम्। अथवा परार्थः परकार्य परोपकारस्तस्य घटना तत्र पटुः। परोऽत्र स्तोता इति । अभ्यां च स्तुतौ बहवोऽप्यर्था उदयन्ते ऽपरेऽपि ते तु कुशाग्रीयबुद्धिभिः खयमवधार्याः । एतद्व्याख्याया दिग्मात्रप्रकाशकत्वादिति द्वादशवृत्तार्थः ॥१२॥ इति विबुधश्रुतसागरकौतुकहेतोरिमां स्तुतिं विदधे । वृत्तिं च देवसुन्दरगुरुशिष्यः साधुराजगणिः ॥ १ ॥ महामहोपाध्यायश्रीसाधुराजगणिकृते स्तुतितिः॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy