________________
॥ अर्हम् ॥ ॥ ॐ नमः ॥
भक्तामर प्रणतमौलिमणिप्रभाणामुद्दीपकं जिनपदाम्बुजयामलं ते । स्तोष्ये मुदाऽहमनिशं किल मारुदेव दुष्टाष्टकर्म्मरिपुमण्डलभित्सुधीर ॥ १ ॥ श्रीमज्जिनेश्वरकलापमहं स्तुवेरमुद्योतकं दलितपापतमोवितानम् । भव्याम्बुजातदिननाथनिभं स्तवीमि
भक्त्या नमस्कृतममर्त्यनराधिराजैः ॥ २ ॥ व जिनक्षितिपतेस्त्रिपदीमवाप्य
गच्छेश्वरैः प्रकटिता किल वाग्मुदा या । सम्यक् प्रणम्य जिनपादयुगं युगादावेवं शुभार्थनिकरैर्भुवि सास्तु लक्ष्म्यै ॥३॥ यक्षेश्वरस्तव जनेश्वर गोमुखाह्नः
सेवां व्यधत्त कुशलक्षितिभृत्पयोदः ।