________________
श्रीसाधुराजीयजिनस्तुतिः
मतैकभक्तिक इत्युक्तम् । इति एकादशवृत्तार्थः ॥ ११ ॥ एवं स्तुतिः शुभवतो भवतः प्रसिद्धसद्भोज्यशाकवरनामविराजिमध्या । स्वामिन् ! परार्थघटनापटुराशु कर्तुनिर्दम्भमाभ्युदयिकीं वितनोति लक्ष्मीम् १२ ॥ श्रीजिनस्तुतिर्विषमार्था ॥ । भोज्यादिनामभिर्गर्भितमिदं स्तवनं संपूर्णम् ।
२४
एवं स्तुतिः ॥ व्याख्या ॥ हे स्वामिन् ! एवमुक्तप्रकारेण शुभवतः कल्याणभाजो भवतस्तव स्तुतिः स्तवनं कर्तुः स्तोतुरित्यर्थः । निर्दम्भं निर्व्याजं । आशु शीघ्रं यशःप्रमोदसुखपुण्यसमृद्ध्यादिरूपां लक्ष्मीं वितनोति विशेषेण विस्तारयति । कथं भूता स्तुतिः। सन्ति प्रधानानि च तानि भोज्यानि च सद्भोज्यानि शाकेषु वराणि शाकवराणि ततो द्वन्द्वः तेषां नामानि प्रसिद्धानि लोकप्रतीतानि च तानि सद्भोज्यशाकवरनामानि च तैर्विराजि