________________
स्वोपज्ञ - टीकासहिता ।
धीः पदे । तेबोरुभक्तिमान् देवसुलापीलूनदुर्मतिः ॥ ११ ॥
२३
[ जनः कल्याणभाजी स्यात् सकलो लीनधीः पदे । ते वोरुभक्तिमान् देव! सुलापी लूनदुर्मतिः ॥ ११॥
जनः क० ॥ व्याख्या ॥ हे देव ! तव पदे क्रमकमले लीनधीः आसक्तबुद्धिः सकलो जनः कल्याणानि भजते इत्येवंशीलः कल्याणभाजी । केवलात् भजतेस्तु निणि भागीत्येव स्यात् तेन संयुक्तमेव वाक्यं क्रियते, स्यात् भवेत् । जनः कथं भूतः उरुभक्तिमान् उरुश्चासौ भक्तिश्व सा विद्यतेऽस्येति उरुभक्तिमान् । अत्र बहुव्रीहेः प्रसङ्गेऽपि मतुर्भवति । यथा । आकैलासाद्विसकिसलयच्छेदपाथेयवन्त इति, गौरखरवदरण्यमिति वा । सुष्टु माधुर्यादिगुणैः शोभनं यथा स्यादेवं लपति वक्ति इत्येवंशीलः सुलापी। माधुर्यसारस्यादिगुणप्रगुणवाणीक इत्यर्थः । तथा लूनदुर्मतिः लूना च्छिन्ना दुर्मतिर्मिथ्याबुद्धिर्येन स तथा । एतेन जिन