SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १० श्रीसाधुराजीयजिनस्तुतिः कमनीयाः कचाश्चिकुरा यस्य तस्य । लोकं कथं भूतं कुठवडीतप्तं कुत्सितः ठो रुद्र उपलक्षणत्वाच्छेषा अपि तथाविधसुराः वली च, जरा लक्षणम् , लक्षणेन च लक्ष्यं ध्वन्यते, ततश्च बलीशब्देन जरा कथ्यते, तैस्ततं सन्तापितं कुदेवजरादिसन्तापितमित्यर्थः ॥ इति सप्तमवृत्तार्थः ॥ ७॥ आयुःपूरणमारस्य निरमाः शुभसूरणम् । दुःखांडमीशाकुरुथाःखंडशः सवडांगकः॥८॥ [आयुःपूरणम् आरस्य निरमाः शुभसूः रणम् । दुःखाण्डम् ईश! अकुरुथाः खण्डशः सबलाङ्गकः॥८॥] आयुः ॥ व्याख्या ॥ हे ईश! त्वं शुभसूर्मङ्गलजनयिता आरस्य आन्तरारिसमूहस्यायुःपूरणं जीवितकालसमापकं रणमायोधनं निरमाः अकार्षीः । त्वं कथं भूतः सबलाङ्गकः बलिष्ठदेहः। तथा त्वं दुःखाण्डं दुःखमेवाण्डं खण्डशश्चूर्ण अकुरुथाः अकार्षीः । इत्यष्टमवृत्तार्थः ॥ ८॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy