________________
खोपज्ञ-टीकासहिता । राबडीलासुधामस्येद्रंभांजंघारडीनते। दृढोऽकलांतनार्थेते यस्तस्येशनबाकला॥६॥ [रावलीला सुधामस्येद रम्भा जङ्घाऽऽरलीन!ते। दृढोऽकलान्त!न अर्थे ते यस्तस्येश! नवा कला ॥९॥]
राबी०॥ व्याख्या० ॥९॥ हे ईश। हे अकलान्त। अकला अविज्ञानानि अन्तयति विनाशयतीति अकलान्तस्तस्यामन्त्रणा । ते तव रावलीला वचनललितं सु. धाममृतमस्येत् माधुर्यातिशयेन निराकुर्यात् । तथा ते तव जङ्घा प्रसिद्धा सौकुमार्यातिशयेन रम्भाङ्कदलीमस्येद् । तथा हे आरलीन आ समन्तात् अरणं आरः अल्प्रत्ययः सर्वे गत्यर्था ज्ञानार्था इति न्यायात ज्ञानमित्यर्थः, नत्र लीनः प्रसक्त इत्यर्थः तस्य संबोधनं । तथा यस्ते तवाऽर्थे पूजने न दृढोऽस्थिरधीभवति तस्य पुरुषस्य नवा कला अपूर्व विज्ञानमित्यर्थः । नवाकलेति विपरीतलक्षणयोपहासः प्रकाश्यते।इति नवमवृत्तार्थः॥ कहरीधनभारस्य नादुस्तेशकटींडसाम्।