________________
स्वोपज्ञ-टीकासहिता। घटीरांचितारस्य डोडिकान्तकचस्यते। लोकं कुठवडीतप्तमकर्पटांगतर्पयेत् ॥७॥ [घटीलूराञ्चितारस्य डोऽलिकान्तकचस्य ते। लोकं कुठवलीतप्तं अकर्पट ! अङ्ग! तर्पयेत् ॥ ७ ॥]
घटीरू० ॥ व्याख्या ॥ अङ्गेति कोमलामन्त्रणे । हे अकर्पट नास्ति कर्पटं वस्त्रं यस्य सोऽकर्पटः वस्त्राभावेन शेषनिश्शेषपरिग्रहस्याप्यभावोऽवगम्यते । यदुक्तम् । “वपुर्विरूपाक्षमलक्षितं जनुर्दिगम्बरत्वेन निवेदितं वसु ॥ वरेषु यद्वालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ १॥ इति ॥ तस्यामन्त्रणा । ते तव डो ध्वनिर्लोकं जनं तर्पयेत् प्रीणयेत् । तव कथं भूतस्य घटीमपि व्याप्य लूराञ्चितारस्य लूः छेदनं तां रातीति लूरं मरणं तत् अश्चितं प्राप्तं आरमरिसमूहो यस्य स तथा तस्य स्वल्पकालमध्ये समूलकाषं कषितद्विषद्वर्गस्येत्यर्थः । पुनस्ते कथं भूतस्य अलिकान्तकचस्य अलिर्भमरस्तद्वत् कान्ताऽतिशयेन कान्ताः