________________
१८ श्रीसाधुराजीयजिनस्तुतिः त । अपि तु सर्वोऽपि स्तुतवानित्यर्थः ॥ इति पञ्चम वृत्तार्थः ॥ ५॥ रसांगरीत्या त्वद्वाणीः कइरम्यं जहत्यघम्। मानबाउलियापीय श्रामलांग जिनेश नो॥६॥ [रसाङ्गीत्या त्वद्वाणीः क इरम्यं जहत्यघम् । मानवा उ लियाऽऽपीय आमलाङ्ग ! जिनेश ! नो ॥६॥]
रसाङ्ग ॥ ६ ॥ व्याख्या ॥ हे जिनेश ! तथा हे आमलाङ्ग! आ समन्ततोऽमलमङ्गं यस्य तस्यामन्त्रणा। रसागरीत्या रसाङ्गयुक्त्या लद्वाणीस्तव गिरश्वापीय श्रुतिपुटैः पीत्वा के मानवा मनुष्याः ए: कामस्य पक्षभूतत्वाद्रम्यं मनोहरं इरम्यं अघं पापं न जहति अपि तु सर्वेऽपि पापरोगापसारणे रसाङ्गसमाः त्वबाणीर्निपीय पापरोगं त्यजन्तीत्यर्थः। उ इति कोमलामन्त्रणे। आपीय कयेत्याह। लिया, लयेन चित्तैकाग्यविशेषेणेति यावत । आपीय आमलाङ्गेत्यत्र विरामविवक्षया सन्ध्यभावः । इति षष्ठ वृत्तार्थः ॥ ६ ॥