________________
श्रणिनस्तोत्ररत्नकोशः। २२७ श्लाघ्येत शत्रैरपि युक्तमेतत् ॥१२॥ तवाहिसेवां सततं सृजन्त्या
वैरोट्यया श्मसनपालनेन । यदय॑ते पुण्यमनेन तस्याः
शिवेन्दिरां वेनि करे लुठन्तीम् ॥ १३ ।। जयत्प्रतीक्ष प्रतिपक्षतां तव
श्रिताः श्रयन्ते प्रतिपक्षतां श्रियाम् । अतीतसंसारशमां पदं वशं
पदाम्बुजं ते दधतः खमानसे ॥ १४ ॥ अतीतसंसारशमां च शर्मणां पद पदौ ते दधतः खमानसे ॥
॥ इति वोत्तराईपाठः॥ मुधैव देवद्रुमरत्नकुम्भाः
कलौ न सन्तीति वदन्ति मुग्धाः । तवैव मूर्ती खलु ते निलेल्यु
स्तदा न कार्य हि करोति सैव ॥१५॥