________________
२२६ श्रीमुनिसुन्दरमरिविरचितः ।
प्रतीति भेदो गुणदोषजो एवम् ॥ ८॥ अभ्यस्यते यत्सुलभं भवे भवे
भवेत्तदेतत्कथमस्तु वास्तवम् । स्तुतिं तवाभ्यस्य न यत् पुनर्बुधाः
सृजन्ति कस्यापि गतास्त्वदात्मताम् ॥९॥ तव स्तुतिर्वन्दनमर्चनादि वा
सुखाय मुक्तेरिति वेद एव नः। इयं हि ते मूर्तिरपीक्षिता सतां
प्रदर्शयत्येव तदीयवर्णिकाम् ॥१०॥ न शस्यते कैर्धरणोरुगाधिराट्
निधिर्महिम्नां स विशुद्धदर्शनः । तवोपकारानृणतां प्रयाति य
स्वद्भक्तिविनापहृतीष्टदानतः ॥११॥ पद्मावती खं तव पार्श्व भक्त्या
पवित्रयन्ती शिवदायशक्या। त्वदाश्रितान् शर्म परं नयन्ती