________________
२२८ श्रीमुनिसुन्दरसूरिविरचितः । मितंपचवं किमिदं तव प्रभो
समाथवा काऽप्यतुलाऽस्त्यनर्हता। थदक्षरानन्तसुखश्रियां निधेः
सतोशमप्यातनुषे न मेऽर्थिनः ॥ १६॥ मितंपचवं घटते न ते निधि
तमर्थिनां यद्वितरस्यविश्रमम् । अनर्हता मे यदि तत्क्षिपख तां
प्रसद्य सद्योऽत्र विभुस्त्वमेव हि ॥ १७ ॥ सपञ्चविंशे जिन योजने शते
गदादिपीडा विनिहसि योऽङ्गिनाम् । स हंसि किं हृद्यपि मे स्थितो न ताः
कुकर्मभिश्चेत्क्षिप तानि ताश्च तत् ॥ १८ ॥ त्वयैव धत्ते त्रिजगत् सनाथता
मनाथयं त्वामहमप्यतोतिभाग् । सुदुर्गदौघो द्विविधस्तथापि चे
त्ततो हताशस्य ममास्तु कोऽविता ॥ १९ ॥