________________
श्रीसाधुराजीयजिनस्तुतिः
लभमानः। यहा पूः पावित्र्यं तस्यालाभो यस्मादघाल्लोकानामिति व्यधिकरणबहुव्रीहिरिति, तस्थामन्त्रणं । तथा हे लाचूरिमाम्। डो वृषाङ्क इति, अः पुल्लिङ्गः शार्ङ्गधारिणीति, विरिञ्चावाश्चेति, वचनात् ड ईश्वरः अः कृष्णः आ ब्रह्मा तान् चूरयति लक्षणया दर्शनमात्रात् खण्डितानिव करोतीत्येवंशीला या मा भगवतः श्रीमदष्टमहाप्रातिहायादिलक्ष्मीस्तां अमति प्राप्नोतीति विचि, डाचूरिमाम् । यहा।ला लौल्यं चूरिश्च विनाशस्तयोर्मा समृद्धिस्तामा. मयति रुजति अमण रोग इत्यस्य धातोरुजार्थत्वादिति, लाचूरिमाम् विप्, “णेरनिटि"।४।३।८३॥ इति णे क् , तस्य सम्बोधन। अत्र पूर्वत्र च काव्ये स्वराणां कचित् पाठे सानुनासिकत्वम्, अर्थसङ्गत्या च निरनुनासिकत्वं ज्ञेयम्।नच तथा दोषः, विचित्रनामकरम्बितत्वेन चित्रकाव्यत्वात्। एवमग्रतोऽपि भाव्यम्। इति द्वितीयकाव्य वृत्तार्थः ॥ २॥
खसखसमुरुकीपोली मांडामांडी लघी