________________
खोपा-टीकासहिता। १३ यसीघोडाम् । त्वं साकुलीः सुहाली टोठाधाणीचणाऽऽच्छिन्धि ॥३॥ [खसख ! समुरुकी ली मालामाली लघीयसीं घोलाम्। त्वं साकुलीः सुहाली टोठाधाणी इचण! आच्छिन्धि ॥३॥]
खसखस० व्याख्या ॥ हे खसख ! खं चिदि शून्ये चेत्यादिवचनात् खं ज्ञानं तस्य सखा खसखः,“राजन्सखेः"।७३।१०६॥ इत्यट्समासान्तः। ज्ञानसहाय इत्यर्थः। तस्यामन्त्रणा। त्वं सुहाली सु अतिशयेन प्रन्ति जन्तूनुपद्रवन्ति सुहानि पापानि क्किप् , तेषामाली श्रेणी, आ च्छिन्धि समन्ततो विनाशयेति संटङ्कघटना । त्वं कथं भूतः समुरुकीपोली । सम् सामस्त्येन उरूणि गुरूणि यानि कानि सुखानि तानि अतिशयेन विद्यन्ते एषु मत्वर्थीये इनि समुरुकीनि ज्ञानादिरत्नानि ज्ञानादीनां सुखातिशयकारणत्वात्तैरेव वर्गापवर्गादिवस्तुवर्गप्राप्तेः । तत एव च तेषां महासुखवत्ता यौक्तिकी । तेषां ई लक्ष्मी