________________
स्वोपज्ञ - टीकासहिता ।
११
तं, “ गोश्चान्ते ह्रस्व " -- २।४।९६॥ इति ह्रस्वः । तथा हे द ! दायक सांवत्सरिकदाने भगवतो दायकत्वं प्रसिद्धमेव । तथा सेवकान् उपासकान् दयते पालयतीति “ आतो " - ५ । १ । ७६ ॥ इति डे सेवकदस्तस्यामन्त्रणं हे सेवकद ! तथा हे हीन ! रहित । केनेत्याह, अघेन पापेन । त्वां पुनः कथं भूतं । गोक्षीरगुं गोक्षीरं सुरभीपयस्तद्वत् उज्वलत्वादिगुणैस्तत्समाने "गौर्वाणी भूरश्मिवज्रस्वर्गाक्षिवारिष्विति निघण्टुवचनाद्वावौ अक्षिणी यस्य स तथा तं । त्वां पुनः कथं भूतं रगोजात्यस्तजाम्बूनदं । "रस्तीक्ष्णे" इति वचनात् रास्तीक्ष्णा लक्षणया दीप्ता ये गावो रश्मयः शरीरश्च तेषां जातिः समूहस्तयाऽस्तं निराकृतं जाम्बूनदं काञ्चनं येन स तथा तं । त्वां पुनः कथं भूतं । सुगुणाकरं शोभनगुणोत्पत्तिस्थानं ! पुनः कथं भूतं । बुधनतं विद्वन्नमस्कृतं । तथा हे लाभ ! पवनं पूः क्विप् पावित्र्यतां लभते इति पूलाभः
"
कर्मणोऽण् ||५|१|०२|| आन्तरमलक्षयेण विशुद्धिप्रकर्ष