________________
श्रीसाधुराजीयजिनस्तुतिः
___ श्रीजम्बीर०॥ २॥ व्याख्या ॥ अत्रापि काव्यवर्णानुपूव्र्यैव प्रायो व्याख्याऽ सम्मोहार्थमेव । एवमग्रतोऽपि ज्ञेयम् । हे लीनसुरांहिपङ्कज! लीनाः सेवायै चित्तैकाग्यं प्राप्ताः सुरा देवा यत्र एवंविधमंहिपङ्कजं पादकमलं यस्य स तथा तस्य सम्बोधनम्। तथा हे चारो' भुवनत्रयीसुन्दर त्वां स्तौमि । अस्मदर्थक्रियायोगादहमिति लभ्यते इति सम्बन्धः ॥ तथा श्रीजं मन्मथं वीरं सुभटमपास्य निराकृत्य ।हे मोचक!अपसारक । कस्मादित्याह । रणात् युद्धात् । श्रीवीतरागस्तवप्रस्तावात् कामविषयात भव्यानामिति गम्यम्।सकलभावारिमुख्यकामभटापासनात् भव्यानां रणादपसारणं यौक्तिकमेव॥तथा हे नारङ्गरक्ताधर ! नारङ्गं ताम्रफलविशेषस्तद्वद्रक्तावधरौ ओष्ठौ यस्य स तथा तस्यामन्त्रणम् ।अपिः समुच्चये, स च सम्बोधनानि समुच्चिनोति । त्वां कथं भूतं अस्तावायमगुं । अस्तः क्षयङ्गतोऽव अपकृष्टोऽयमो ऽसंयमो यस्याः सा तथा एवंविधा गौर्वाणी यस्य स तथा