________________
स्वोपज्ञ - टीकासहिता ।
९
निसोऽल्पार्थत्वादल्पनीक इत्यर्थः । यथा ह्यनुदरा कन्या इत्युक्ते कन्याया उदराभावो न ख्याप्यते किंत्वस्याः क्षामोदरत्वमित्येवमत्रापि । भगवत्स्तुतौ प्रवृत्तिमत्त्वाच्च श्रीरपि संपत्स्यत इति तामागमिष्यन्तीं सम्भाव्य तत्पालनाय सतां परिचरणं नानुचितमिति न कोऽपि दोषः ॥ १ ॥
श्रीजंबीरमपास्य मोचकरणान् नारंगरक्ताधराप्यस्तावायमगुंदसेवकदहीनाघेन गोक्षीरगुम् ॥ चारोलीनसुरांहि पङ्कजरगोजात्यस्तजांबूनदं स्तौमि त्वां सुगुणाकरं बुधनतं पूडाभलांचूरिमाम् ॥२॥
[ श्रीजं वीरमपास्य मोचक ! रणान् नारङ्गरक्ताधर ! अप्यस्तावायमगुं द ! सेवकद ! हीन ! अन गोक्षीरगुम् ॥ चारो ! लीनसुरांहिपङ्कज ! रगोजात्यस्तजाम्बूनदं स्तौमि त्वां सुगुणाऽऽकरं बुधनतं पूलाभ ! डाञ्चूरिमाम् २ ]