________________
श्रीसाधुराजीयजिनस्तुतिः
गताविति धातोः फणामि आराधनाय गच्छामीति श्रीपानसत्फः “क्वचित् ॥५|१|१७१ ॥ इति डे साधुः । त्वां पुनः कथं भूतमफलं दलञिफला विशरणे इत्यतो न फलति न विशीर्यते ऽनन्तचतुष्टयमयस्वस्वरूपात् न भ्रश्यतीति यावत् इत्यफलः अच् । यहा, न विद्यते फलं प्रयोजनं साध्यं यस्याफलः संसिद्धसर्वकार्य इत्यर्थः । इति प्रथमवृत्तार्थः। अस्यां च व्याख्यायां काव्यवर्णानुपूयैव प्रायो विशेषणानि व्याख्यातान्यसंमोहार्थे न तु कर्तृविशेषणानि कर्मविशेषणानि सम्बोधनपदानि च पृथक् पृथगेकपरिपाट्या स्तुतौ च स्तुत्यगुणवर्णनं स्वस्वरूपनिरूपणं च द्वयं विधेयम्, अहमपि कर्तृविशेषणैः सर्वैः स्वरूपनिवेदनं सम्बोधनैस्त्वामिति कर्मविशेषणैश्च भगवद्गुणवर्णनं चक्रे । खलहलीकेलामतिरित्यत्र हलीकेत्यंशेन कृषीबलवद्यदि निःश्रीकस्तर्हि श्रीपान सत्फ इत्यत्र कथं श्रियः पानाय सत्फ इति । अनयोर्विशेषणयोरसङ्गतिर्न चिन्त्या, यतः कृषीबलवन्निःश्रीक इति
८