________________
श्रीजिनस्तोत्ररवकोशः। दुर्गाद्रिनद्यन्तरितोऽपि नेत__रुल्लासयस्येव गुणैस्त्रिलोकीम्। किं काचकुम्भान्तरितोऽपि दीपः
प्रकाशयत्येव करैर्न वेश्म ॥ १५ ॥ अनाद्यविद्योदरपाशबद्धं
मां मोचय त्रातरिहापि सन्तम् । पयोजग प्रतिपन्नरोधं
भृङ्गं यथा दूरतरोऽपि भानुः ॥ १६ ॥ जगन्ति पश्यन्नपि किं कषायै
मी पीडितं पश्यसि न स्वभक्तम् । दृष्टस्त्वया यन्न हि पीज्यते तै
रूरीकृतो वज्रिजितेव सप्पैः ॥ १७ ॥ यथेच्छदानैरवृणीकृते वया
जगत्यशेषेऽपि ऋणार्दितोऽस्मि किम् । कर्मोत्तमणैर्भवगुप्तितो न य
न्मुच्ये जिनाद्यापि ऋणाद्भवस्थितेः ॥१८॥