________________
२०६ श्रीयुनिसुन्दरसूरिविरचितः। सुयोगविद्याविधिसम्प्रयोगत
स्तन्मामपि प्रापय तत्त्वशेवधीन् । येनानृणीभूय निरस्य रोधका
ननन्तधामा विलसामि मुक्तिभाक् ॥ १९ ॥ त्वां यत्र चित्ते विनिवेश्य मोदे __रागादयो देव दहन्त्यदोऽपि । ततो जगद्रक्षणदक्षिणोऽपि कथं विभो रक्षसि नाश्रयं स्वम् ॥ २० ॥
॥ अथवा ॥ रागादयो यद्विजितास्त्वयैते
वैरेण तेनैव जिनेन्द्र मन्ये । करोषि चित्ते मम यत्र वासं
. दहन्त्यमी तत्तदुपेक्षसे किम् ॥ २१ ॥ विधूय रागादिभवान् विकारान्
दधासि रूपं निरुपाधिकं यत्। त्रिलोकपूज्ये भवतः प्रसादा
न्ममापि तत्रानुभवोऽस्तु सम्यक् ॥ २२ ॥