________________
२०४ श्रीमुनिमुन्दरसूरिविरचितः। मनोरथा अप्यथवा भवन्तु
सदा भवदर्शनगोचरा मे। ध्यातोऽपि यत्पूजितवद्ददासि
खमीप्सितं सर्वमिति प्रमोदे ॥ ११ ॥ स्तवीमि कर्माणि मुनीन्द्र तानि
बभूव येभ्यो मनसः प्रसूतिः । ध्यानेन साक्षादिव येन कृला
खां दैवतं स्यां भगवन् कृतार्थः ॥१२॥ दूरेऽपि भक्त्या विमलेऽसि चित्ते । . सङ्क्रान्तिभाग मे हर तत्तमोऽन्तः । किं दर्पणान्तः प्रतिबिम्बितोऽपि
रविः प्रकाशं न तनोति गेहे ॥ १३ ॥ वं सर्वसर्वेष्टहितोपकारी
दूरेऽपि मां बोधय विश्वबन्धो । करोति किं नो गगने स्थितोऽपि
सुधामयूषः कुमुदे प्रबोधम् ॥ १४ ॥