________________
श्रीजिनस्तोत्ररत्नकोशः। १८९ लवो महिम्नां जिन कोऽपि वर्ण्यते ___ परेषु मोहग्लपितेषु यो जडैः। निबन्धनं क्लेशततेरमीष्वयं सतां कृपायै स्थविमेव शोफजः ॥ ११ ॥
॥ अथवा ॥ स्तुवन्ति यदैत्यजयादिभिर्गुणै___जडाः प्रभुलं भगवन् परेष्वपि । कषायदास्याज्जगतां स धर्मणा
ऽभ्युदेति हास्यं चरितेन तेन नः ॥ १२ ॥ विभो कुशास्त्रैर्ग्रहिला यथा यथा
परे यतन्ते गतये शिवाध्वनि । भवन्ति दूरेण ततस्तथा तथा
पुरात्पराञ्चोऽभिमताद् भ्रमादिव ॥१३॥ त्वयीश रत्नत्रयमानुभूतिकं
शिवश्रियामौपयिकं वदत्यपि। जडैः सतृष्णैर्मृगतृष्णिकाखपि
प्रपाययन्तोऽम्बु किमाश्रिताः परे ॥ १४ ॥