________________
१९०
श्रीमुनिसुन्दरसूरिविरचितः ।
त्वया पिशाचो जिन मोहनामक - स्तिरस्कृतो यः शिवशर्मकाङ्क्षिणा ।
स नूनमाराधनतः श्रितः परै
र्बलेन चास्य ग्रहिलीकृतं जगत् ॥ १५ ॥ तवेश देवान्तरतो वदन्ति येऽधिकत्वमेतानपि निन्दकान् वदे ।
स्तुतिः किमाधिक्यविवर्णने भवे - न्महाम्बुराशेर्मृगतृष्णिकाऽम्बुतः ॥ १६ ॥
भयं न तेषां भवदुःखसम्भवं बिडम्बना मोहपिशाचजाऽपि च ।
शशाम नो शाम्यति वा शमिष्यति
प्रभुर्न येषां शरणं त्वमङ्गिनाम् ॥ १७ ॥ यथा भवापायनिदानमाश्रवाः
शिवश्रियो हेतुरनाश्रवास्तथा । त्वमेव तान् सम्यगवग्, न तत्प्रभो
परं शिवस्यौपयिकं त्वदीरितात् ॥ १८ ॥