________________
१८८
श्रीमुनिसुन्दरसूरिविरचितः।
खतन्त्रमुज्जासयता रिपूकृता__ स्वया स्मराद्याश्चिरसेवका अपि । उपारतं त्वामिति विनयन्ति ते
जनं वदन्यांस्तु बहुं प्रयुञ्जते ॥ ७॥ लया निरास्यन्त चिरत्नसेवकाः
स्मरादयो हंसि च तत्पदान्यपि । भजन्ति तत्त्वां बहवो भियेव ना
गिनोऽन्यथाचारवतः परान् श्रिताः ॥ ८ ॥ परेषु मोहः प्रमदादिभिः स्फुट
स्तदन्विते ज्ञानमशेषगं न च । न तहिना वस्तु यथायथं वद
त्यतः परोक्तैः किमु वञ्च्यते जगत् ॥ ९॥ विधूय तेऽध्वानमशेषवेदिन
स्तपस्क्रियाऽनुष्ठितयः परेषु याः। स्फुरन्ति मोहस्य विडम्बनाऽम्बुधे
ध्रुवं विभो ता अपि काश्विदूर्मयः ॥ १० ॥