________________
श्रीजिनस्तोत्ररत्नको
१८७
फलं यदा पञ्चमकल्पसम्पदं
परे लभन्ते परमैर्यमादिभिः । स्तुतेर्लवस्यापि तवानुषङ्गिकं
तदाऽऽमनन्तः सुधियोऽत्र केऽलसाः ॥३॥ तथा न शस्यं हरिपूज्यतादि ते ___ यथा मुने मुक्तिपथप्रकाशनम् । न दानलुभ्यद् भ्रमरादि दिग्गजे ___ तथा महत्त्वाय यथा क्षमोतिः॥ ४ ॥ विधन्ति दृष्टेष्विह बालिशाः स्पृहां
ददासि तत्त्वं तु किमप्युपासितः। यदीक्षितं कापि न चेक्ष्यतेऽपि तै
भजन्ति न बामिति युक्तमीश ते ॥ ५॥ खजातिवात्सल्यवशादिवाङ्गिनः
सकर्मकैरेव मिलन्ति दैवतैः । अलक्ष्यरूपं त्रिजगद्विलक्षणस्थितिं भवन्तं ननु के श्रयन्तु तत् ॥ ६॥