________________
१८६ श्रीमुनिमुन्दरसूरिविरचितः ।
एवं वीरजिनं जगत्रयपति श्रेयोविलासालयं शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जप्रमोदाऽद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥२५॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरमरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यले श्रीजिनस्तोत्ररनकोशे प्रथमप्रस्तावे श्रीवर्द्धमान
जिनस्तोत्ररत्रं षोडशम्।
॥ अहम् ॥ जयश्रीदायकं विश्वनायकं मोहजित्वरम् । अनन्तमहिमाम्भोधि श्रीजिनं श्रेयसे स्तुवे ॥ १॥ जिन स्तवं यं तव वासवादयः ___सृजन्ति भक्तेर्विदधेऽहमप्यमुम् । महाम्बुदा यत्किल भुञ्जते पयः
किमम्बुधेस्तच्छफरार्भकोऽपि न ॥ २॥