________________
श्रीहनिमुन्दरसूरिविरचितः।
॥ अहम् ॥ जयश्रीनिलयं यस्य पदाम्भोजं भजन भवी । भवतेऽभीप्सितं श्रेयः श्रीवीरं तं स्तुवे विभुम् ॥१॥ न शब्दव्युत्पत्तौ मम चतुरता नापि कविता.
गुणो नार्थोत्पत्तिः स्फुरति पटुता नो भणितिषु । प्रयत्नः स्तोतुं वां तदपि यदयं, हेतुरिह मे
विभोऽनन्योपाये शिवसुखफले गाढरुचिता ॥२॥ न ये पात्रं मैत्र्या न वशकरणा नोद्दयचरणा
न शीलाढ्या नो वा दमितमनसो नोग्रतपसः। दधानैरेतेष्वप्यतुलकरुणामेष जगदे
शिवस्योपायोऽर्हन् मुनिभिरिति ते संस्तुतिरियम्॥३॥ नयैरेकैकांशग्रहणनिपुणैर्नाथ न गुणास्तवानन्ताः शक्याः स्तवयितुमनन्तैरपि युगैः । प्रमावाक्यं तत्तान् जिन सममनन्तानभिदधत्
स्तुवन्ति स्तोतारस्तव मतविदो वादिन इव ॥४॥ पुनर्जन्माभावोऽखिलजनहितैकार्थकरणं