________________
श्री जिनस्तोत्ररत्रकोशः ।
मङ्गलानि विलसन्ति समन्तादानमन्ति रिपवो जिन पुंसाम् ।. सम्पदः सममिहापि सुखौघैः सम्भवन्ति भवतो नवतो वै ॥ २७ ॥ एवं वीर जिनामुनाऽपि मयका मुग्धस्तवेन स्तुतो ढब्धेनेश सुकेवलाक्षरपदैर्भक्त्या कृपावारिधे । आरोग्योत्तमबोधिबीजविभवं दत्वा प्रसद्याशु मे देयान्निर्मल केवलाक्षरपदं प्रोद्यज्जयश्रीभरम् ॥ २८ ॥ एवं वीरजिनं जगत्रयपतिं श्रेयोविलासालयं शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽडयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२९॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराज श्रीदेवसुन्दरसूरिश्री ज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीवर्द्धमानजिनस्तवनं केवलाक्षरपदं स्तोत्ररत्नं पञ्चदशम् |
१७९