________________
१७८ श्रीमुनिसुन्दरमरिविरचितः। भवन्तु नूनं सुकृतानि तानि मे
सदा मनो हे भुवनैकबान्धव । इदं निलीनं तव पादपङ्कजे
दृढानुबन्धं चलतां जहाति यैः ॥ २३ ॥ समीहमानः शिवमेव कोविदो
यतेत संसारसुखाणवे न तु । परैरनेनैव च वञ्चिता जना,
मतो भवानेव गतिः स देहिनः ॥ २४ ॥ न दातुमीशा मरुतां महीरुहा
न यां घटा नो मणयो न धेनवः अनन्तसातोदयिनीं ददाति ता
मपीश पुंसां कमलां तवानतिः ॥२५॥ अपारसंसारविकारभेदिने
सदा परानन्दचिदेकयोगिने। समीहिताशेषसुखौघदायिने
नमो नमो वीरजिनाय तायिने ॥ २६ ॥