________________
श्रीजिनस्तोत्ररत्नकोशः। १७७ तवागमालोचनचारिचेतसः... __ करोति मे वीर भयं भवोदधिः। तनोति मोहः कुमतिं तथापि, तां
यया भजे वाणितरी न तेऽनिशम् ॥ १९ ॥ इमं रिपुं नाशय नाथ तेन मे
विबाधकं ही बहुधा कदाशयैः। पराभवो यः किल सेवके रिपो
रयं धुनीते विभुतागुणं विभोः ॥ २० ॥ जडा विषीदन्ति सुरान्तराश्चनैः
समीहया भूपतिसम्पदामपि। नुतेरनन्तो महिमा स कोऽपि ते
ऽवहीलना तासु ययापि ते फले ॥२१॥ तवागमागाधसुधासरोवरे
निलीयतां मेऽज तथा मनोझषः । यथा भवापायदवानलोदितं
न विन्दते तापभरं मनागपि ॥ २२ ॥
१२