________________
श्रीजिनस्तोत्ररत्नकोशः १०१ न वैक्लव्यं कार्ये क्वचिदपि नचौत्सुक्यमपि यत् । कदाऽप्यस्वास्थ्यं नेत्यनुपमतयैवाभवपरान्
स्वरूपं ते देवानधरयति मुग्धाशयमुषः ॥ ५ ॥ महानन्दप्राप्तौ न भवति रतिः संसृतिसुखे,
गतेऽत्यन्ताभावं वपुषि खलु जन्मास्ति न पुनः । समग्रैश्वर्याप्तौ प्रभवति न मित्रेतरमति
बुधमन्यैरन्ये कथमनुसृतास्तच्छिवधिया ॥६॥ विमुक्तो रागाद्यैः प्रथयति फलं नो तदुचितं
विनाऽमी नादृष्टं न च तदुदये निवृतिसुखम् । स्वयं नाप्राप्तस्तत्प्रभवति परेभ्यो वितरितुं
त्वदन्यं सेवन्ते कथमिव परे तेन कुधियः ॥ ७ ॥ अमेयास्ते बाणा भुवनजयिनः शम्बररिपोः कषायास्ते योधा हतनरसुराधीश्वरमदाः। अयं मोहस्तेषां प्रमुरपि भटत्वे स्तुतिपदं विभो तावद्यावन्न तव चरितं संस्पृशति हृत् ॥ ८॥
-
१ अमोघा इति पाठान्तरम् ।