________________
श्रीजिनस्तोत्ररत्नकोशः ।
तनोतिनो भाविशिवेन्दिराणां विना भवन्तं किल कोऽ पि मोदम् ।
ऋते दिनेशं कमलाकराणां विबोधमा धातुमलं नु को वा ॥ ११ ॥ वाणी नृणां वीर विभो तवैव मोहान्धकारं नयते विनाशम् ।
न जाङ्गुलीजापमृते महाहि
गरो विलीयेत जनाङ्गसङ्गी ॥ १२ ॥
तमो यदन्तं न हि नेतुमीशते
विधोः करा नापि दिनेशितूरुचः ।
शरीरभाजां तदपीदमान्तरं
जिनेश वाचो लघु नाशयन्ति ते ॥ १३ ॥
भजन्ति ते वीर विभो कथं गिरः
सुधारसेनोपमितिं मनीषिताः ।
भवाघतापं मरणं जरां च या
१७५
हरन्ति चेतोविषयीकृता अपि ॥ १४ ॥