________________
१७४ श्रीमुनिसुन्दरसूरिविरचितः। भवन्ति वै तावदमी भवामया,
महालया देव भयाय देहिनाम् । रसायनाभानि वचांसि ते मुने
भजन्ति नो यावदिमे कृतादराः ॥ ७ ॥ अपारयन्तो भवदागमोदितं
विधि विधातुं विषयाभिलाषिणः । मनोऽनुकूलं कुमतानि ये गिरा
परे भजन्ते कुधियां शिवाशया ॥ ८ ॥ विरागभाजो भिषजोदिते कटौ
महौषधौघे मधुरैकरागिणः। ते लान्ति किम्पाकफलानि मोहिता
रिपूपदेशेन निरामतेहया ॥ ९॥ मनोहरानन्तसुखौघसम्पदा
तवैव सेवा दधते निदानताम् । परेऽपि जानन्ति विचारणादिदं
तदेव तेषां हरते तु मूढता ॥ १० ॥