________________
बीजिनस्तोवरवकोशः। १७३ बिभेति यो घोरभवाम्बुराशितः
समीहते वा शिवसातसम्पदः। लमेत नोपायमयं परं यतो ___ भवन्तमेवेति निषेवते सुधीः ॥ ३ ॥ लसन्ति पुंसां सुखसम्पदोऽखिला
भजन्ति नाशं सकला मियः पुनः । तवैव पादाम्बुजवन्दने स्तः
को नेहते तानि कृती कलावपि ॥ ४ ॥ हितानि वाञ्छन्ति, तदेककारणं
भवन्तमीशं न भजन्ति चाहताः। उपायहीनाः सदुषेयरागिणो
वृथा विषीदन्ति जडा हहा परे ॥५॥ तपांसि तेषां खलु देहदण्डनं
वृथैव योगागमसङ्गमादराः । शुभाय नैवापि कुदेवसेवना
भवन्तमीशं किल ये न जानते ॥ ६ ॥