________________
श्रीजिनस्तोत्ररत्नकोशः। १६७ प्रदेहीति तामेव शुद्धां ममाईन् ॥ ४॥ ध्यायन्ति ये नाथ पदद्वयं ते
पदवयं ते सुधियो लभन्ते । महोदयं वा सुमनोमनो वा
सदेव दाता हि पदं ददाति ॥ ५ ॥ जगत्रयत्राणचणे प्रभौ मे
त्वयि प्रपन्ने न भयं कुतोऽपि । विश्वप्रकाशप्रवणे रवौ य- . .. न्न सेव्यमाने तमसोऽवकाशः ॥ ६॥ अतिशीतिसमृद्धिरद्धता
तव संविद्विभवश्व सर्वगः। भुवनोपकृतौ प्रगल्भसे
कृतकृत्यः खयमीश तत्सुखम् ॥ ७ ॥ न च रुष्यसि नापि तुष्यसि
प्रभुता काऽपि तथाऽपि तेऽद्भुता । अपि सर्वसुरासुरेश्वरा