________________
१६६
श्रीमुनिसुन्दरसूरिविरचितः । ॥ अर्हम् ॥
जयश्रीविलासालयं सर्वदेवा
सुराधीश संसेव्यपादारविन्दम् ।
जगन्नायकं दायकं ब्रह्मलक्ष्म्याः
स्तुवे श्रीजिनं वर्द्धमानाभिधानम् ॥ १ ॥ प्रभो मङ्गलं शाश्वतं संस्तवस्ते समाकर्षणं सम्पदां सर्वतोऽर्हन् ।
धृतिः कान्तिकीर्त्ती महत्वं प्रतिष्ठा सुखं चेति तस्मिन् प्रयत्नं विदध्याम् ॥ २ ॥
युगेऽस्मिन्निशीथेऽपि मोहापनोदात् प्रकाशाय मोक्षाध्वनोऽदीदिपद्यः ।
स्थिरं विश्वविद्योति सिद्धान्तदीपं
नमो वर्द्धमानाय तस्मै जिनाय ॥ ३ ॥ अभीष्टं त्वदीयागमार्थेक्षणानामुपेयं परानन्दशमैव नेतः ।
उपायस्तु तस्य त्वदाज्ञैव सम्यक्